दिवाली पर गणेश लक्ष्मी पूजन करना सीखें Diwali Lakshmi Pujan kaise karen Lakshmi Pujan vidhi

Описание к видео दिवाली पर गणेश लक्ष्मी पूजन करना सीखें Diwali Lakshmi Pujan kaise karen Lakshmi Pujan vidhi

दिवाली पर गणेश लक्ष्मी पूजन करना सीखें Diwali Lakshmi Pujan kaise karen Lakshmi Pujan vidhi #Diwali
#dipawaliPujan #LakshmiPujan


ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।
यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥

ॐ केशवाय नमः
ॐ माधवाय नमः
ॐ नारायणाय नमः

आसन शुद्धि करने का मंत्र

पृथ्वि त्वया धृतालोका देवि त्वं विष्णुना धृता।
त्वं च धारय मां देवि पवित्रं कुरु चासनम् ॥
संङ्कल्प
ॐ विष्णुर्विष्णर्विष्णुः श्रीमद्भगवतो महापुरुषस्य विष्णोराज्ञया
प्रवर्त्तमानस्य अद्य ब्रह्मणो द्वितीये परार्धे श्रीश्वेतवाराहकल्पे
वैवस्वतमन्वन्तरे अष्टाविंशतितमे युगे कलियुगे कलिप्रथमचरणे
भूर्लोके भारतवर्षे जम्बूद्वीपे भरतखण्डेश्रीगङ्गायमुनयोरमुकदिग्भागे
श्रीमन्नृपतिवीरविक्रमादित्यसमयतोऽमुकसंख्यापरिमित
भारत देशे अमुक क्षेत्र अमुक नाम्निनगरे
सूर्यदक्षिणायिने दक्षिणगोले हेमंत ऋतौ
अमुक गोत्रोत्पन्नस्य अमुक नमोऽहम्
सपरिवारस्य ममात्मनः
श्रुतिस्मृतिपुराणोक्तपुण्यफलप्राप्त्यर्थं मम ऐश्वर्याभिवृद्ध्यर्थम्
अप्राप्तलक्ष्मीप्राप्त्यर्थं प्राप्तलक्ष्म्याश्चिरकालसंरक्षणार्थं
नवग्रहादि प्रसन्नता सिद्ध्यर्थंअहं श्रुतिस्मृतिपुराणोक्त
फलावाप्तिकामनया ज्ञाता-
ज्ञातकायिकवाचिकमानसिकसकल
पापनिवृत्तिपूर्वकं स्थिरलक्ष्मी-
प्राप्तये श्रीमहालक्ष्मीप्रीत्यर्थं
महालक्ष्मीपूजनं कुबेरादीनां च पूजनं
गणपत्यादिपूजनं अहम् करिष्ये

प्रतिष्ठा –
ॐ मनो जूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमं तनोत्वरिष्टं यज्ञः
समिमं दधातु । विश्वे देवास इह मादयन्तामो३ म्प्रतिष्ठ।

ॐ अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाः क्षरन्तु च।
अस्यै देवत्वमर्चायै मामहेति च कश्चन ॥

भगवान् गणेशका ध्यान-
गजाननं भूतगणादिसेवितं
कपित्थजम्बूफलचारुभक्षणम्।
उमासुतं शोकविनाशकारकं
नमामि विघ्नेश्वरपादपङ्कजम् ॥

या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी
गम्भीरावर्तनाभिस्तनभरनमिता शुभ्रवस्त्रोत्तरीया ।
या लक्ष्मीर्दिव्यरूपैर्मणिगणखचितैः स्नापिता हेमकुम्भैः
सा नित्यं पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता ॥

ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आ वह ॥
ॐ महालक्ष्म्यै नमः । ध्यानार्थे पुष्पाणि समर्पयामि। (

पाद्योपाद्यं हस्तयोर्घ्यं, मुखे आचमनीयम्
सर्वांगे स्नानीयम् जलं समर्पयामि

दुग्धस्नान–कामधेनुसमुत्पन्नंसर्वेषांजीवनंपरम् ।
पावनं यज्ञहेतुश्च पयः स्नानार्थमर्पितम् ॥
ॐ महालक्ष्म्यै नमः । पयः स्नानं समर्पयामि ।
पयःस्नानान्ते
शुद्धोदकस्नानं समर्पयामि।

दधिस्नान–पयसस्तु समुद्भूतं मधुराम्लं शशिप्रभम्।
दध्यानीतं मया देवि स्नानार्थं प्रतिगृह्यताम् ॥

ॐ महालक्ष्म्यै नमः । दधिस्नानं समर्पयामि ।
दधिस्नानान्ते
शुद्धोदकस्नानं समर्पयामि । (

नवनीतसमुत्पन्नं सर्वसंतोषकारकम् ।
घृतं तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यताम् ॥

ॐ महालक्ष्म्यै नमः । घृतस्नानं समर्पयामि।
घृतस्नानान्ते
शुद्धोदकस्नानं समर्पयामि।

मधुस्नान - तरुपुष्पसमुद्भूतं सुस्वादु मधुरं मधु ।
-तेज:पुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम् ॥

ॐ महालक्ष्म्यै नमः ।
मधुस्नानं समर्पयामि। मधुस्नानान्ते
शुद्धोदकस्नानं समर्पयामि ।

शर्करास्नान
– इक्षुसारसमुद्भूताशर्करा पुष्टिकारिका ।
मलापहारिका दिव्या स्नानार्थं प्रतिगृह्यताम्।।

ॐ महालक्ष्म्यै नमः ।
शर्करास्नानं समर्पयामि, शर्करास्नानान्ते
पुनः शुद्धोदकस्नानं समर्पयामि।

पयो दधि घृतं चैव मधुशर्करयान्वितम् ।
पञ्चामृतं मयानीतं स्नानार्थं प्रतिगृह्यताम् ॥

ॐ महालक्ष्म्यै नमः ।
पञ्चामृतस्नानं समर्पयामि, पञ्चामृत-
स्नानान्ते शुद्धोदकस्नानं समर्पयामि । (

शुद्धोदकस्नान –
मन्दाकिन्यास्तु यद्वारि सर्वपापहरं शुभम् ।
तदिदं कल्पितं तुभ्यं स्नानार्थं प्रतिगृह्यताम् ॥
ॐ महालक्ष्म्यै नमः । शुद्धोदकस्नानं समर्पयामि

वस्त्र –
दिव्याम्बरं नूतनं हि क्षौमं त्वतिमनोहरम् ।
दीयमानं मया देवि गृहाण जगदम्बिके ।

ॐ महालक्ष्म्यै नमः । वस्त्रं समर्पयामि,
आचमनीयं जलं च
समर्पयामि।

उपवस्त्र- -
कञ्चुकीमुपवस्त्रं च नानारत्नै: समन्वितम् ।
गृहाण त्वं मया दत्तं मङ्गले जगदीश्वरि ॥
ॐ महालक्ष्म्यै नमः । उपवस्त्रं समर्पयामि,
आचमनीयं जलं
च समर्पयामि ।

गन्ध – श्रीखण्डं चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् ।
विलेपनं सुरश्रेष्ठे चन्दनं प्रतिगृह्यताम् ॥

ॐ महालक्ष्म्यै नमः । गधं समर्पयामि

सिन्दूर –
सिन्दूरं रक्तवर्णं च च सिन्दूरतिलकप्रिये ।
भक्त्या दत्तं मया देवि सिन्दूरं प्रतिगृह्यताम् ॥

ॐ महालक्ष्म्यै नमः । सिन्दूरं समर्पयामि

तैलानि च सुगन्धीनि द्रव्याणि विविधानि च ।
मया दत्तानि लेपार्थं गृहाण परमेश्वरि ॥

ॐ महालक्ष्म्यै नमः ।
सुगन्धिततैलं पुष्पसारं च समर्पयामि

अक्षत* –
अक्षताश्च सुरश्रेष्ठे कुङ्कुमाक्ताः सुशोभिताः ।
-मया निवेदिता भक्त्या गृहाण परमेश्वरि ॥

ॐ महालक्ष्म्यै नमः | अक्षतान् समर्पयामि ।

पुष्प एवं पुष्पमाला –
माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो।
मयानीतानि पुष्पाणि पूजार्थं प्रतिगृह्यताम् ॥

ॐ महालक्ष्म्यै नमः । पुष्पं पुष्पमालां च समर्पयामि । (

अङ्ग-पूजा

ॐ चपलायै नमः, पादौ पूजयामि । ॐ चञ्चलायै नमः, जानुनी पूजयामि ।
ॐ कमलायै नमः, कटिं पूजयामि । ॐ कात्यायन्यै नमः, नाभिं पूजयामि ।
ॐ जगन्मात्रे नमः, जठरं पूजयामि । ॐ विश्ववल्लभायै नमः, वक्षःस्थलं पूजयामि ।
ॐ कमलवासिन्यै नमः, हस्तौ पूजयामि । ॐ पद्माननायै नमः, मुखं पूजयामि ।
ॐ कमलपत्राक्ष्यै नमः, नेत्रत्रयं पूजयामि ।ॐ श्रियै नमः, शिरः पूजयामि ।
ॐ महालक्ष्म्यै नमः, सर्वाङ्गं पूजयामि ।

अष्टसिद्धि-पूजन

१-ॐ अणिस्ने नमः २-ॐ महिम्ने नमः
३-ॐ गरिम्णे नमः ४-ॐ लघिम्ने
नमः , ५-ॐ प्राप्त्यै नमः , ६-ॐ प्राकाम्यै
नमः , ७-ॐ ईशितायै नमः तथा ८-ॐ
वशितायै नमः

Комментарии

Информация по комментариям в разработке