Ekadash Upanishad Shanti Mantra | Powerful Mantra | Peace of Mind | शान्ति मन्त्र | NakshatraPedia

Описание к видео Ekadash Upanishad Shanti Mantra | Powerful Mantra | Peace of Mind | शान्ति मन्त्र | NakshatraPedia

11 Upanishads’ Shanti Mantra , Shanti Mantra , Sanatan Dharm , Shankracharya, Ekadash Upanishad, Most Powerful Mantra , Peace Of Mind, Meditation, एकादश उपनिषद् के शान्ति मन्त्र, NakshatraPedia

Want to learn Sanskrit? Check out our best-selling course →
Learn Sanskrit Language (Samskrutam) - The Complete Guide -
https://www.udemy.com/course/learn-sa...

Learn how to chant Geeta shlokas with correct pronunciation with utmost clarity → https://www.udemy.com/course/shreemad...

Follow us on Instagram -   / nakshatrapedia  

[ ईशावास्योपनिषद् ,बृहदारण्यकोपनिषद् ]

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्ण मेवावशिष्यते ॥
ॐ शान्तिः शान्तिः शान्तिः ॥

[ केनोपनिषद् ,छान्दोग्योपनिषद् ]

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि।
सर्वं ब्रह्मौपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु।
तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु।
ॐ शान्तिः शान्तिः शान्तिः॥

[ कठोपनिषद् ,श्वेतश्वतरोपनिषद् ]

ॐ सह नाववतु ।
सह नौ भुनक्तु ।
सह वीर्यं करवावहै ।
तेजस्विनावधीतमस्तु मा विद्विषावहै ।
ॐ शान्तिः शान्तिः शान्तिः ॥

[ प्रश्नोपनिषद् , मुण्डकोपनिषद् , माण्डुक्योपनिषद् ]

ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः।
भद्रं पश्येमाक्षभिर्यजत्राः।
स्थिरैरङ्गैस्तुष्टुवा(गुं)सस्तनूभिः।
व्यशेम देवहितं यदायुः।
स्वस्ति न इन्द्रो वृद्धश्रवाः ।
स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्ताक्षर्यो अरिष्टनेमिः ।
स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥


[ ऐतरेयोपनिषद् ]

ॐ वाङ् मे मनसि प्रतिष्ठिता ।
मनो मे वाचि प्रतिष्ठितम् ।
आविराविर्म एधि ।
वेदस्य म आणीस्थः ।
श्रुतं मे मा प्रहासीः ।
अनेनाधीतेनाहोरात्रान्सन्दधामि ।
ऋतं वदिष्यामि ।
सत्यं वदिष्यामि ।
तन्मामवतु ।
तद्वक्तारमवतु ।
अवतु माम् ।
अवतु वक्तारामवतु वक्तारम् ॥
ॐ शान्तिः शान्तिः शान्तिः ॥

[ तैत्तिरियोपनिषद् ]

ॐ शं नो मित्रः शं वरुणः ।
शं नो भवत्वर्यमा ।
शं नो इन्द्रो बृहस्पतिः ।
शं नो विष्णुरुरुक्रमः ।
नमो ब्रह्मणे ।
नमस्ते वायो ।
त्वमेव प्रत्यक्षं ब्रह्मासि ।
त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि ।
ॠतं वदिष्यामि ।
सत्यं वदिष्यामि ।
तन्मामवतु ।
तद्वक्तारमवतु ।
अवतु माम् ।
अवतु वक्तारम् ॥
ॐ शान्तिः शान्तिः शान्तिः ॥

Please like, share and subscribe our channel. Hit the bell icon to get regular updates about our videos.
If you have any questions regarding our videos/mantras, you can ask us in the comments section below.
Your suggestions/recommendations will be always welcomed!


#shantimantra #शान्तिमन्त्र #NakshatraPedia

Комментарии

Информация по комментариям в разработке