।।श्रीभैरवताण्डवस्तोत्रम्।।

Описание к видео ।।श्रीभैरवताण्डवस्तोत्रम्।।

ॐ चण्डं प्रतिचण्डं करधृतदण्डं कृतरिपुखण्डं सौख्यकरं लोकं सुखयन्तं विलसितवन्तं प्रकटितदन्तं नृत्यकरम् । डमरुध्वनिशङ्खं तरलवतंसं मधुरहसन्तं लोकभरं भज भज भूतेशं प्रकटमहेशं भैरववेषं कष्टहरम् ॥ १॥ चर्चितसिन्दूरं रणभूविदूरं दुष्टविदूरं श्रीनिकरं किङ्किणिगणरावं त्रिभुवनपावं खर्प्परसावं पुण्यभरम् । करुणामयवेशं सकलसुरेशं मुक्तसुकेशं पापहरं भज भज भूतेशं प्रकटमहेशं श्रीभैरववेषं कष्टहरम् ॥ २॥ कलिमलसंहारं मदनविहारं फणिपतिहारं शीघ्रकरं कलुषं शमयन्तं परिभृतसन्तं मत्तदृगन्तं शुद्धतरम् । गतिनिन्दितकेशं नर्तनदेशं स्वच्छकशं सन्मुण्डकरं भज भज भूतेशं प्रकटमहेशं श्रीभैरववेशं कष्टहरम् ॥ ३॥ कठिनस्तनकुम्भं सुकृतं सुलभं कालीडिम्भं खड्गधरं वृतभूतपिशाचं स्फुटमृदुवाचं स्निग्धसुकाचं भक्तभरम् । तनुभाजितशेषं विलमसुदेशं कष्टसुरेशं प्रीतिनरं भज भज भूतेशं प्रकटमहेशं श्रीभैरववेशं कष्टहरम् ॥ ४॥ ललिताननचन्द्रं सुमनवितन्द्रं बोधितमन्द्रं श्रेष्ठवरं सुखिताखिललोकं परिगतशोकं शुद्धविलोकं पुष्टिकरम् । वरदाभयहारं तरलिततारं क्षुद्रविदारं तुष्टिकरं भज भज भूतेशं प्रकटमहेशं श्रीभैरववेषं कष्टहरम् ॥ ५॥ सकलायुधभारं विजनविहारं सुश्रविशारं भ्रष्टमलं शरणागतपालं मृगमदभालं सञ्जितकालं स्वेष्टबलम् । पदनूपूरसिञ्जं त्रिनयनकञ्जं गुणिजनरञ्जन कुष्टहरं भज भज भूतेशं प्रकटमहेशं श्रीभैरववेषं कष्टहरम् ॥ ६॥ मर्दयितुसरावं प्रकटितभावं विश्वसुभावं ज्ञानपदं रक्तांशुकजोषं परिकृततोषं नाशितदोषं सन्मतिदम् । कुटिलभ्रुकुटीकं ज्वरधननीकं विसरन्धीकं प्रेमभरं भज भज भूतेशं प्रकटमहेशं श्रीभैरववेषं कष्टहरम् ॥ ७॥ परिनिर्जितकामं विलसितवामं योगिजनाभं योगेशं बहुमद्यपनाथं गीतसुगाथं कष्टसुनाथं वीरेशम् । कलयन्तमशेषं भृतजनदेशं नृत्यसुरेशं वीरेशं भज भज भूतेशं प्रकटमहेशं श्रीभैरववेषं कष्टहरम् ॥ ८॥ इति श्रीभैरवताण्डवस्तोत्रं सम्पूर्णम् ॥

Комментарии

Информация по комментариям в разработке