8/16 Brahma Sutram | ப்ரஹ்மஸூத்ரம் | Tamil | 1.1.2 | जन्माद्यस्य यतः ॥ २ ॥

Описание к видео 8/16 Brahma Sutram | ப்ரஹ்மஸூத்ரம் | Tamil | 1.1.2 | जन्माद्यस्य यतः ॥ २ ॥

Brahma Sutram (Day 8) | ப்ரஹ்மஸூத்ரம் | Tamil | 1.1.2
जन्माद्यधिकरणम्
ब्रह्म जिज्ञासितव्यमित्युक्तम् । किंलक्षणकं पुनस्तद्ब्रह्मेत्यत आह भगवान्सूत्रकारः —
जन्माद्यस्य यतः ॥ २ ॥

जन्म उत्पत्तिः आदिः अस्य — इति तद्गुणसंविज्ञानो बहुव्रीहिः । जन्मस्थितिभङ्गं समासार्थः । जन्मनश्चादित्वं श्रुतिनिर्देशापेक्षं वस्तुवृत्तापेक्षं च । श्रुतिनिर्देशस्तावत् — ‘यतो वा इमानि भूतानि जायन्ते’ (तै. उ. ३ । १ । १) इति, अस्मिन्वाक्ये जन्मस्थितिप्रलयानां क्रमदर्शनात् । वस्तुवृत्तमपि — जन्मना लब्धसत्ताकस्य धर्मिणः स्थितिप्रलयसम्भवात् । अस्येति प्रत्यक्षादिसन्निधापितस्य धर्मिण इदमा निर्देशः । षष्ठी जन्मादिधर्मसम्बन्धार्था । यत इति कारणनिर्देशः । अस्य जगतो नामरूपाभ्यां व्याकृतस्य अनेककर्तृभोक्तृसंयुक्तस्य प्रतिनियतदेशकालनिमित्तक्रियाफलाश्रयस्य मनसाप्यचिन्त्यरचनारूपस्य जन्मस्थितिभङ्गं यतः सर्वज्ञात्सर्वशक्तेः कारणाद्भवति, तद्ब्रह्मेति वाक्यशेषः ।


Voice of Rishis
Sri Ramanacharana Tirtha (Nochur) Swami
https://www.voiceofrishis.org

Комментарии

Информация по комментариям в разработке