LALITA 108 श्री ललिता १०८ नामावली (वनस्थ योगी श्री ६ श्री गुरु श्री शिव दत्त स्मारक गड्डी , जोधपुर )

Описание к видео LALITA 108 श्री ललिता १०८ नामावली (वनस्थ योगी श्री ६ श्री गुरु श्री शिव दत्त स्मारक गड्डी , जोधपुर )

॥ अथ श्रीललिताम्बिका दिव्याष्टोत्तरशतनामावलिः ॥
॥ शिवकामसुन्दर्यम्बाष्टोत्तर शतनामावलिः च ॥
स्तोत्रस्य पूर्वपीठिका
श्रीषण्मुख उवाच ।
वन्दे विघ्नेश्वरं शक्तिं वन्दे वाणीं विधिं हरिम् ।
वन्दे लक्ष्मीं हरं गौरीं वन्दे माया महेश्वरम् ॥१॥
वन्दे मनोन्मयीं देवीं वन्दे देवं सदाशिवम् ।
वन्दे परशिवं वन्दे श्रीमत्त्रिपुरसुन्दरीम् ॥२॥
पञ्चब्रह्मासनासीनां सर्वाभीष्टार्थसिद्धये ।
सर्वज्ञ! सर्वजनक! सर्वेश्वर! शिव! प्रभो !॥३॥
नाम्नामष्टोत्तरशतं श्रीदेव्याः सत्यमुत्तमम् ।
श्रोतुमिच्छाम्यऽहं तात! नामसारात्मकं स्तवम् ॥४॥
श्रीशिव उवाच ।
तद्वदामि तव स्नेहाच्छृणु षण्मुख ! तत्त्वतः ।
अथ नामावलिः ।
ॐ महामनोन्मन्यै नमः ।
ॐ शक्त्यै नमः ।
ॐ शिवशक्त्यै नमः ।
ॐ शिवङ्कर्यै नमः ।
ॐ इच्छाशक्तिस्वरूपिण्यै नमः ।
ॐ क्रियाशक्तिस्वरूपिण्यै नमः ।
ॐ ज्ञानशक्तिस्वरूपिण्यै नमः ।
ॐ शान्त्यातीता कलायै नमः ।
ॐ नन्दायै नमः ।
ॐ शिवमायायै नमः । १०
ॐ शिवप्रियायै नमः ।
ॐ सर्वज्ञायै नमः ।
ॐ सुन्दर्यै नमः ।
ॐ सौम्यायै नमः ।
ॐ सच्चिदानन्दविग्रहायै नमः ।
ॐ परात्परामय्यै नमः ।
ॐ बालायै नमः ।
ॐ त्रिपुरायै नमः ।
ॐ कुण्डल्यै नमः ।
ॐ शिवायै नमः । २०
ॐ रुद्राण्यै नमः ।
ॐ विजयायै नमः ।
ॐ सर्वायै नमः ।
ॐ सर्वाण्यै नमः ।
ॐ भुवनेश्वर्यै नमः ।
ॐ कल्याण्यै नमः ।
ॐ शूलिन्यै नमः ।
ॐ कान्तायै नमः ।
ॐ महात्रिपुरसुन्दर्यै नमः ।
ॐ मालिन्यै नमः । ३०
ॐ मानिन्यै नमः ।
ॐ शर्वायै नमः ।
ॐ मग्नोल्लासायै नमः ।
ॐ मोहिन्यै नमः ।
ॐ माहेश्वर्यै नमः ।
ॐ मातङ्ग्यै नमः ।
ॐ शिवकामायै नमः ।
ॐ शिवात्मिकायै नमः ।
ॐ कामाक्ष्यै नमः ।
ॐ कमलाक्ष्यै नमः । ४०
ॐ मीनाक्ष्यै नमः ।
ॐ सर्वसाक्षिण्यै नमः ।
ॐ उमादेव्यै नमः ।
ॐ महाकाल्यै नमः ।
ॐ श्यामायै नमः ।
ॐ सर्वजनप्रियायै नमः ।
ॐ चित्परायै नमः ।
ॐ चिद्घनानन्दायै नमः ।
ॐ चिन्मयायै नमः ।
ॐ चित्स्वरूपिण्यै नमः । ५०
ॐ महासरस्वत्यै नमः ।
ॐ दुर्गायै नमः ।
ॐ ज्वाला दुर्गायै नमः ।
ॐ अतिमोहिन्यै नमः ।
ॐ नकुल्यै नमः ।
ॐ शुद्धविद्यायै नमः ।
ॐ सच्चिदानन्दविग्रहायै नमः ।
ॐ सुप्रभायै नमः ।
ॐ स्वप्रभायै नमः ।
ॐ ज्वालायै नमः । ६०
ॐ इन्द्राक्ष्यै नमः ।
ॐ विश्वमोहिन्यै नमः ।
ॐ महेन्द्रजालमध्यस्थायै नमः ।
ॐ मायामयविनोदिन्यै नमः ।
ॐ शिवेश्वर्यै नमः ।
ॐ वृषारूढायै नमः ।
ॐ विद्याजालविनोदिन्यै नमः ।
ॐ मन्त्रेश्वर्यै नमः ।
ॐ महालक्ष्म्यै नमः ।
ॐ महाकाल्यै नमः । ७०
ॐ फलप्रदायै नमः ।
ॐ चतुर्वेदविशेषज्ञायै नमः ।
ॐ सावित्र्यै नमः ।
ॐ सर्वदेवतायै नमः ।
ॐ महेन्द्राण्यै नमः ।
ॐ गणाध्यक्षायै नमः ।
ॐ महाभैरवमोहिन्यै नमः ।
ॐ महामय्यै नमः ।
ॐ महाघोरायै नमः ।
ॐ महादेव्यै नमः । ८०
ॐ मदापहायै नमः ।
ॐ महिषासुरसंहन्त्र्यै नमः ।
ॐ चण्डमुण्डकुलान्तकायै नमः ।
ॐ चक्रेश्वरी चतुर्वेदायै नमः ।
ॐ सर्वाद्यै नमः ।
ॐ सुरनायिकायै नमः ।
ॐ षड्शास्त्रनिपुणायै नमः ।
ॐ नित्यायै नमः ।
ॐ षड्दर्शनविचक्षणायै नमः ।
ॐ कालरात्र्यै नमः । ९०
ॐ कलातीतायै नमः ।
ॐ कविराजमनोहरायै नमः ।
ॐ शारदातिलकायै नमः ।
ॐ तारायै नमः ।
ॐ धीरायै नमः ।
ॐ शूरजनप्रियायै नमः ।
ॐ उग्रतारायै नमः ।
ॐ महामार्यै नमः ।
ॐ क्षिप्रमार्यै नमः ।
ॐ रणप्रियायै नमः । १००
ॐ अन्नपूर्णेश्वरी मात्रे नमः ।
ॐ स्वर्णकान्तितटिप्रभायै नमः ।
ॐ स्वरव्यञ्जनवर्णाढ्यायै नमः ।
ॐ गद्यपद्यादिकारणायै नमः ।
ॐ पदवाक्यार्थनिलयायै नमः ।
ॐ बिन्दुनादादिकारणायै नमः ।
ॐ मोक्षेशी महिषी नित्यायै नमः ।
ॐ भुक्तिमुक्तिफलप्रदायै नमः ।
ॐ विज्ञानदायिनी प्राज्ञायै नमः ।
ॐ प्रज्ञानफलदायिन्यै नमः । ११०
ॐ अहङ्कारा कलातीतायै नमः ।
ॐ पराशक्तिः परात्परायै नमः । ११२
स्तोत्रस्य फलश्रुतिः ।
सर्वपापक्षय करं महापातकनाशनम् ।
सर्वव्याधिहरं सौख्यं सर्वज्वरविनाशनम् ॥ १॥
ग्रहपीडाप्रशमनं सर्वशत्रुविनाशनम् ।
आयुरारोग्यधनदं सर्वमोक्षशुभप्रदम् ॥ २॥
देवत्वममरेशत्वं ब्रह्मत्वं सकलप्रदम् ।
अग्निस्तम्भं जलस्तम्भं सेनास्तम्भादिदायकम् ॥ ३॥
शाकिनीडाकिनीपीडा हाकिन्यादिनिवारणम् ।
देहरक्षाकरं नित्यं परतन्त्रनिवारणम् ॥ ४॥
मन्त्रं यन्त्रं महातन्त्रं सर्वसिद्धिप्रदं नृणाम् ।
सर्वसिद्धिकरं पुंसामदृश्यत्वाकरं वरम् ॥ ५॥
सर्वाकर्षकरं नित्यं सर्वस्त्रीवश्यमोहनम् ।
मणिमन्त्रौषधीनां च सिद्धिदं शीघ्रमेव च ॥ ६॥
भयश्चौरादिशमनं दुष्टजन्तुनिवारणम् ।
पृथिव्यादिजनानां च वाक्स्थानादिपरो वशम् ॥ ७॥
नष्टद्रव्यागमं सत्यं निधिदर्शनकारणम् ।
सर्वथा ब्रह्मचारीणां शीघ्रकन्याप्रदायकम् ॥ ८॥
सुपुत्रफलदं शीघ्रमश्वमेधफलप्रदम् ।
योगाभ्यासादि फलदं श्रीकरं तत्त्वसाधनम् ॥ ९॥
मोक्षसाम्राज्यफलदं देहान्ते परमं पदम् ।
देव्याः स्तोत्रमिदं पुण्यं परमार्थं परमं पदम् ॥ १०॥
विधिना विष्णुना दिव्यं सेवितं मया च पुरा ।
सप्तकोटिमहामन्त्रपारायणफलप्रदम् ॥ ११॥
चतुर्वर्गप्रदं नृणां सत्यमेव मयोदितम् ।
नाम्नामष्टोत्तरशतं यच्छाम्यऽहं सुखप्रदम् ॥ १२॥
कल्याणीं परमेश्वरीं परशिवां श्रीमत्त्रिपुरसुन्दरीं
मीनाक्षीं ललिताम्बिकामनुदिनं वन्दे जगन्मोहिनीम् ।
चामुण्डां परदेवतां सकलसौभाग्यप्रदां सुन्दरीं
देवीं सर्वपरां शिवां शशिनिभां श्रीराजराजेश्वरीम् ॥
इति श्रीमन्त्रराजकल्पे मोक्षपादे स्कन्देश्वरसंवादे
श्रीललितादिव्याष्टोत्तरशतनामावलिः वा
श्रीशिवकामसुन्दर्यम्बाष्टोत्तरशतनामावलिः सम्पूर्णा ।

Комментарии

Информация по комментариям в разработке