Meaning of the Mahāmṛtyuñjaya Mantra | महामृत्युञ्जय मन्त्र का अर्थ | Hindi only

Описание к видео Meaning of the Mahāmṛtyuñjaya Mantra | महामृत्युञ्जय मन्त्र का अर्थ | Hindi only

Pronunciation of Mahāmṛtyuñjaya Mantra | महामृत्युञ्जय मन्त्र का उच्चारण:    • Mahamrityunjaya Mantra | महामृत्युञ्ज...  

Video of Prof. Pushpesh Pant | पुष्पेष पन्त का साक्षात्कार:    • Prof. Pushpesh Pant ने खाने के अलावा ...  

त्र्य॑म्बकं यजामहे सु॒गन्धिं॑ पुष्टि॒वर्ध॑नम् ।
उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ मामृता॑त्॥ १२ ॥
tryambakaṃ yajāmahe sugandhiṃ puṣṭivardhanam
urvārukamiva bandhanānmṛtyormukṣīya māmṛtāt

ऋग्वेद की शाकल संहिता पर सायण का भाष्य: अत्र शौनकः – त्रिरात्रं नियतोपोष्य श्रपयेत्पायसं चरुम् । तेनाहुतिशतं पूर्णं जुहुयाच्छंसितव्रतः ॥ समुद्दिश्य महादेवं त्र्यम्बकं त्र्यम्बकेत्यृचा । एतत्पर्वशतं कृत्वा जीवेद्वर्षशतं सुखी' (ऋग्वि. २. ३१४-१५)॥ [ त्रयाणां ब्रह्मविष्णुरुद्राणामम्बकं पितरं “यजामहे इति शिष्यसमाहितो वसिष्ठो ब्रवीति । किंविशिष्टमित्यत आह। "सुगन्धिं प्रसारितपुण्यकीर्तिम् । पुनः किंविशिष्टम्। "पुष्टिवर्धनं जगद्बीजम् । उरुशक्तिमित्यर्थः। उपासकस्य वर्धनम् । अणिमादिशक्तिवर्धनम् । अतस्त्वत्प्रसादादेव “मृत्योः मरणात् संसाराद्वा “मुक्षीय मोचय । यथा बन्धनादुर्वारुकं कर्कटीफलं मुच्यते तद्वन्मरणात् संसाराद्वा मोचय । किं मर्यादीकृत्य । “आमृतात् । सायुज्यतामोक्षपर्यन्तमित्यर्थः । अथ तैत्तिरीयभाष्ये( तै. सं. १ .८. ६. २) – “शोभनः शरीरगन्धः पुण्पगन्धो वा यस्यासौ सुगन्धिः। यथा वृक्षस्य संपुष्पितस्य दूराद्गन्धो वात्येवं पुण्यस्य कर्मणो दूराद्गन्धो वाति' (तै. आ. १०. ९) इति श्रुतेः । पुष्टिं शरीरधनादिविषयां वर्धयतीति पुष्टिवर्धनः । तादृशं त्र्यम्बकं यजामहे पूजयामः । लोके यथोर्वारुकफलानि बन्धनाद्वृन्तात् स्वयमेव मुच्यन्ते तद्वदहं त्र्यम्बकप्रसादेन मृत्योर्मुक्षीय मोचनयुक्तो भूयासम् । अमृताच्चिरजीवितात् स्वर्गादेवर्वा मा मुक्षीय । चतुर्थपादार्थे मन्त्रस्य तात्पर्यातिशयं दर्शयति - त्र्यम्बकं यजामह इत्याह मृत्योर्मुक्षीय मामृतादिति वावैतदाह ' (तै.ब्रा. १.६.१०.५) इति ॥] ॥३०॥

शुक्लयजुर्वेद की वाजसनेयी माध्यन्दिन संहिता पर उवट और महीधर का भाष्य: https://archive.org/details/suklayaju...

कृष्ण यजुर्वेद की तैत्तिरीय संहिता पर भट्टभास्कर मिश्र का भाष्य: https://archive.org/details/taittiriy...

कृष्ण यजुर्वेद की तैतिरीय संहिता पर सायण का भाष्य: https://archive.org/details/taittiriy...

Комментарии

Информация по комментариям в разработке