Meaning and essence of RCM verse “ढोल गँवार शूद्र पशु नारी, यह सब ताड़न के अधिकारी”। Hin

Описание к видео Meaning and essence of RCM verse “ढोल गँवार शूद्र पशु नारी, यह सब ताड़न के अधिकारी”। Hin

ढोल गँवार शूद्र पशु नारी।
यह सब ताड़न के अधिकारी॥
—रामचरितमानस, ५.५९.६॥

लालने बहवो दोषास्ताडने बहवो गुणाः।
तस्माच्छिष्यं च पुत्रं च ताडयेन्न तु लालयेत्॥
—गरुडपुराण, १.११५.९

न निन्दाताडने कुर्यात्सुतं शिष्यं च ताडयेत्॥
—गरुडपुराण, १.९६.५७

भार्या पुत्रश्च दासश्च प्रेष्यो भ्राता च सोदरः।
प्राप्तापराधास्ताड्याः स्यू रज्ज्वा वेणुदलेन वा॥
पृष्ठतस्तु शरीरस्य नोत्तमाङ्गे कथञ्चन।
अतोऽन्यथा तु प्रहरन् प्राप्तः स्याच्चौरकिल्बिषम्॥
—मनुस्मृति, ८.२९९–३००

मार्गस्थापनोपायविधिः परश्चायं न ताडनविधिरेव वाग्दण्डाद्यपि कर्तव्यं, अपराधानुरूपेण कदाचित्ताडनम् ... वेणुदलं वंशत्वक् एतदप्युपलक्षणं तथाविधानां मृदुपीडासाधनानाम् ... अन्येन प्रकारेण घ्नन्नक्षादिषु लगुडादिभिर्वा चौरदण्डं स प्राप्नोति ... योऽन्यत्र हिंसाया दण्डः सोऽत्र भवतीत्युक्तं भवति।
—मनुस्मृति, ८.२९९–३००, पर मेधातिथि का भाष्य

शिष्यशिष्टिरवधेन।
अशक्तौ रज्जुवेणुविदलाभ्यां तनुभ्याम्।
अन्येन घ्नन् राज्ञा शास्यः।
—गौतम धर्मसूत्र, १.२.४८–५०

दुष्टाचारे समारब्धे त्वन्यभावसमुत्थिते।
दण्डः पातयितव्यस्तु मृदुताडनबन्धनैः॥
—नाट्यशास्त्र, २३.७०

Комментарии

Информация по комментариям в разработке